The Qualities of Shri Rama

Valmiki enquires about a man – a man with 16 virtuous qualities in the below 4 slokas
कः नु अस्मिन् सांप्रतम् लोके गुणवान् कः च वीर्यवान् |
धर्मज्ञः च कृतज्ञः च सत्य वाक्यो धृढ व्रतः || १-१-२
चारित्रेण च को युक्तः सर्व भूतेषु को हितः |
विद्वान् कः कः समर्थः च कः च एक प्रिय दर्शनः ||
आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः |
कस्य बिभ्यति देवाः च जात रोषस्य संयुगे || १-१-४
Narada Maharshi answers him as below starting with below sloka – that such virtuous qualities are found rarely in single person
बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः |
मुने वक्ष्ष्यामि अहम् बुद्ध्वा तैः उक्तः श्रूयताम् नरः || १-१-७
And explains Rama’s 64 qualities
इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः |

नियत आत्मा महावीर्यो द्युतिमान् धृतिमान् वशी || १-१-८

बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः |

विपुलांसो महाबाहुः कंबु ग्रीवो महाहनुः || १-१-९

महोरस्को महेष्वासो गूढ जत्रुः अरिन्दमः |

आजानु बाहुः सुशिराः सुललाटः सुविक्रमः || १-१-१०

समः सम विभक्त अंगः स्निग्ध वर्णः प्रतापवान् |

पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः || १-१-११

र्मज्ञः सत्य सन्धः च प्रजानाम् च हिते रतः |

यशस्वी ज्ञान संपन्नः शुचिः वश्यः समाधिमान् || १-१-१२

प्रजापति समः श्रीमान् धता रिपु निषूदनः |

रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता|| १-१-१३

रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता |

वेद वेदाङ्ग तत्त्वज्ञो धनुर् वेदे च निष्ठितः || १-१-१४

सर्व शास्त्र अर्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् |

सर्वलोक प्रियः साधुः अदीनाअत्मा विचक्षणः || १-१-१५

सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः |

अर्यः सर्वसमः च एव सदैव प्रिय दर्शनः || १-१-१६

स च सर्व गुणोपेतः कौसल्य आनंद वर्धनः |

समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव || १-१-१७

विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः |

काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः || १-१-१८

धनदेन समः त्यागे सत्ये धर्म इव अपरः |

Leave a comment

Blog at WordPress.com.