कः नु अस्मिन् सांप्रतम् लोके गुणवान् कः च वीर्यवान् |
धर्मज्ञः च कृतज्ञः च सत्य वाक्यो धृढ व्रतः || १-१-२
चारित्रेण च को युक्तः सर्व भूतेषु को हितः |
विद्वान् कः कः समर्थः च कः च एक प्रिय दर्शनः ||
आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः |
कस्य बिभ्यति देवाः च जात रोषस्य संयुगे || १-१-४
Narada Maharshi answers him as below starting with below sloka – that such virtuous qualities are found rarely in single person
बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः |
मुने वक्ष्ष्यामि अहम् बुद्ध्वा तैः उक्तः श्रूयताम् नरः || १-१-७
And explains Rama’s 64 qualities
इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः | नियत आत्मा महावीर्यो द्युतिमान् धृतिमान् वशी || १-१-८ बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः | विपुलांसो महाबाहुः कंबु ग्रीवो महाहनुः || १-१-९ महोरस्को महेष्वासो गूढ जत्रुः अरिन्दमः | आजानु बाहुः सुशिराः सुललाटः सुविक्रमः || १-१-१० समः सम विभक्त अंगः स्निग्ध वर्णः प्रतापवान् | पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः || १-१-११ र्मज्ञः सत्य सन्धः च प्रजानाम् च हिते रतः | यशस्वी ज्ञान संपन्नः शुचिः वश्यः समाधिमान् || १-१-१२ प्रजापति समः श्रीमान् धता रिपु निषूदनः | रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता|| १-१-१३ रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता | वेद वेदाङ्ग तत्त्वज्ञो धनुर् वेदे च निष्ठितः || १-१-१४ सर्व शास्त्र अर्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् | सर्वलोक प्रियः साधुः अदीनाअत्मा विचक्षणः || १-१-१५ सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः | अर्यः सर्वसमः च एव सदैव प्रिय दर्शनः || १-१-१६ स च सर्व गुणोपेतः कौसल्य आनंद वर्धनः | समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव || १-१-१७ विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः | काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः || १-१-१८ धनदेन समः त्यागे सत्ये धर्म इव अपरः |